भारतशब्दः देशवाचकः कोशेषु

  • आप्टे – the country of Bharata; एतदूढगुरुभार भारतं वर्षमद्य मम वर्तते वशे Śi.14.5.
  • कल्पद्रुमे – वर्षभेदः . इति मेदिनी ..
    • स तु जम्बुद्वीपस्यनववंर्षान्तर्गतनवमवर्षः .
    • तद्विवरणं यथा, —
      • “ उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।
        वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥
        नवयोजनसाहस्रो विस्तारोऽस्य महामुने ! ।
        कर्म्मभूमिरियं स्वर्गमपवर्गञ्च गच्छताम् ॥
        महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्व्वतः ।
        बिन्ध्यश्च पारिपात्रश्च सप्तात्र कुलपर्व्वताः ॥
        अतः संप्राप्यते स्वर्गो मुक्तिमस्मात् प्रयान्ति च ।
        तिर्य्यक्त्वं नरकं चापि यान्त्यतः पुरुषा मुने ! ॥
        इतः स्वर्गश्च मोक्षश्च मध्यञ्चान्तश्च गम्यते ।
        न खल्वन्यत्र मर्त्यानां कर्म्मभूमौ विधीयते ॥
        भारतस्यास्य वर्षस्य नव भेदान्निशामय ।
        इन्द्रद्वीपः कशेरुश्च ताम्रपर्णो गभस्तिमान् ॥
        नागद्वीपस्तथा सौम्यो गान्धर्व्वस्त्वथ वारुणः ।
        अयन्तु नवमस्तेषां द्वीपः सागरसंवृतः ॥
        योजनानां सहस्रन्तु द्बीपोऽयं दक्षिणोत्तरात् ।
        पूर्ब्बे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः ॥
        ब्राह्मणाः क्षत्त्रिया वैश्या मध्ये शूद्राश्च भागशः ।
        इज्यायुद्धबणिज्याद्यैर्व्वर्त्तयन्तो व्यवस्थिताः ॥
        शतद्रुश्चन्द्रभागाद्या हिमवत्पादनिःसृताः ।
        वेदस्मृतिमुखाश्चान्याः पारिपात्रोद्भवा मुने ! ॥
        नर्म्मदासुरसाद्याञ्च नद्यो बिन्ध्यविनिःसृताः ।
        तापी पयोष्णी निर्विन्ध्याप्रमुखा ऋक्षसम्भवाः ॥
        गोदावरी भीमरथी कृष्णवेण्यादिकास्तथा ।
        सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः ॥
        कृतमाला ताम्रपर्णी प्रमुखा मलयोद्भवाः ।
        त्रिसामा ऋषिकुल्याद्या महेन्द्रप्रभवाः स्मृताः ॥
        ऋषिकुल्या कुमार्य्याद्याः शुक्तिमत्पादसम्भवाः ।
        आसां नद्युपनद्यश्च सन्त्यन्याश्च सहस्रशः ॥
        तास्विमे कुरुपाञ्चालमध्यदेशादयो जनाः ।
        पूर्ब्बदेशादिकाश्चैव कामरूपनिवासिनः ॥
        ओड्राः कलिङ्गा मगधा दाक्षिणात्याश्च कृत्-स्नशः ।
        तथापरान्ताः सौराष्ट्राः शूराभीरास्तथार्व्वुदाः ॥
        मारुका मालवाश्चैव पारिपात्रनिवासिनः ।
        सौवीराः सैन्धवा हूणाः शाल्वाः शाकल-वासिनः ॥
        मद्रा रामास्तथाम्बष्ठाः पारसीकादयस्तथा ।
        आसां पिबन्ति सलिलं वसन्ति सरितां सदा ॥
        समीपतो महाभाग ! हृष्टपुष्टजनाकुलाः ।
        चत्वारि भारते वर्षे युगान्यत्र महामुने ! ॥
        कृतं त्रेता द्वापरञ्च कलिश्चान्यत्र न क्वचित् ।
        तपस्तप्यन्ति यतयो जुह्वते चात्र यज्विनः ॥
        दानानि चात्र दीयन्ते परलोकार्थमादरात् ।
        पुरुषैर्यज्ञपुरुषो जम्बुद्बीपे सदेज्यते ॥
        यज्ञैर्यज्ञपतिर्विष्णुरन्यद्वीपेषु चान्यथा ।
        तत्रापि भारतं श्रेष्ठं जम्बुद्वीपे महामुने ! ॥
        यतो हि कर्म्मभूरेषा ततोऽन्या भोगभूमयः ।
        अत्र जन्मसहस्राणां सहस्रैरपि सत्तम ! ।
        कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् ॥
        गायन्ति देवाः किल गीतकानिधन्यास्तु ये भारतभूमिभागे ।
        स्वर्गापवर्गास्पदमार्गभूतेभवन्ति भूयः पुरुषाः सुरत्वात् ॥
        कर्म्माण्यसङ्कल्पिततत्फलानिसंन्यस्य विष्णौ परमात्मरूपे ।
        अवाप्य तां कर्म्ममहीमनन्तेतस्मिल्लयं ये त्वमलाः प्रयान्ति ॥
        जानीम नैतत् क्व वयं विलीनेस्वर्गप्रदे कर्म्मणि देहबन्धम् ।
        प्राप्स्याम धन्याः खलु ते मनुष्याये भारते नेन्द्रियविप्रहीनाः ॥
        नववर्षन्तु मैत्रेय ! जम्बुद्वीपमिदं मया ।
        लक्षयोजनविस्तारं संक्षेपात् कथितं तव ॥
        जम्बूद्बीपं समावृत्य लक्षयोजनविस्तरः ।
        मैत्रेय ! वलयाकारः स्थितः क्षारोदधिर्बहिः ॥
        ” इति श्रीविष्णुपुराणे।
  • शब्दसागरे – भारत¦ n. (-तं) 1. Bha4ratavarsha or India proper, so called from BHA- RATA, the son of DUSHYANTA, whose patrimony it was. (E. भरत the the prince and अण् aff.)
  • वाचस्पत्यम – भरतेन चि-ह्नितं तस्येदं वा अण्। हिमाह्वं दक्षिणं वर्षं भरतायददौ पिता . तस्माच्च भारतं वर्षम्” इत्युक्ते जम्बुद्वीपा-न्तर्गते वर्षभेदे
Advertisements

एक उत्तर दें

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / बदले )

Twitter picture

You are commenting using your Twitter account. Log Out / बदले )

Facebook photo

You are commenting using your Facebook account. Log Out / बदले )

Google+ photo

You are commenting using your Google+ account. Log Out / बदले )

Connecting to %s