How much does BG 2.42-2.46 subvert pravRtti-dharma?

Motivation

I’ve no interest in the Ananda-addiction game. Yet, the desire to understand the exact extant to which bhagavad-gItA-2.42-2.46 (interpreted traditionally) subvert vaidika pravRtti-dharma motivated this study.

Core verses

  • यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः। वेदवादरताः पार्थ नान्यदस्तीति वादिनः॥ 2.42।।
    कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥2.43।।
    भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥2.44।।
    त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन। निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्।।2.45।।
    यावानर्थ उदपाने सर्वतः संप्लुतोदके। तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः।।2.46।।

Summary:

  • This is but a deprecation of vaidika kriya-s (taken in general) as a means of mokSha or Ananda, since they cater to other lesser ends as well through “kAmya-karma-“s.
  • The Ananda-obsessed sAdhaka (where eligible) is encouraged, with the Ishvara-dedication-attitude, to undertake those vaidika-kriya-s conducive to that Ananda goal (to the neglect of these other “distracting” kAmya-karma-s).
    • shrI-vaiShNava hierarchy reportedly: “Those who dont worship < avaidika worship < vaidika worshippers of other devas < ekantin worship but with kAmyaphala < paramikantin with nishkama worship.”
  • Those that refuse mokSha or deny its existence are called inferior. The fruits of kAmya-karma-s (even a place in svarga) are said to pale in comparison to the fruits of Ananda-addiction yoga/ jJNAna.
  • veda-s as the one reliable source for pravRtti-dharma is *not* challenged. Further, before sannyAsa, while kAmya-karma-s are deprecated, pravRtti-dharma itself is not deprecated as a “distraction” from Ananda-obtainment. Rather, from the context of the verses, they’re encouraged (with the apt “dedication” attitude).
  • Nature of kAmya-karma (partly from other sources):
    • The present verses refer to kAma-primary motivations (bhoga/ aishvarya = consumership / lordship)
    • Anything motivated by dedication to dharma (rather than consumer desire) is not kAmya-karma (even if it results in similar fruits).
    • Proscribed kAmya-karma anecdotally includes effortful endeavors like kAmya iShTi-s, composing mundane kAvya (remembered story of shrIvaiShNava vidvAn), but possibly / seemingly excludes minor pleasures like eating special sweets.

 Citations

  • Abhinavagupta on 2.46: ” यदि तु वेददूषणपरमेतदभविष्यत् प्रकृतं युद्धकरणं व्यघटिष्यत, वेदादन्यस्य स्वधर्मनिश्चायकत्वाभावात्। येषां तु फलाभिलाषो विगलितः तेषां न वेदाः बन्धकाः।”
  • रामानुजः on 2.45: ” तद्विषया वेदाः तमःप्रचुराणां रजःप्रचुराणां सत्त्वप्रचुराणां च वत्सलतरतया एव हितम् अवबोधयन्ति वेदाः। यदि एषां स्वगुणानुगुण्येन स्वर्गादिसाधनम् एव हितं न अवबोधयन्ति, तदा एव ते रजस्तमःप्रचुरतया सात्त्विकफलमोक्षविमुखाः स्वापेक्षितफलसाधनम् अजानन्तः, कामप्रावण्यविवशा अनुपायेषु उपायभ्रान्त्या प्रविष्टाः प्रणष्टा भवेयुः।  …  एवं वर्तमानस्य ते रजस्तमः प्रचुरता नश्यति सत्त्वं च वर्धते। न च वेदोदितं सर्वं सर्वस्य उपादेयम् “. On 2 .46, he reiterates: “सर्वतः संप्लुतोदके उदपाने  पिपासोः  यावान् अर्थः  यावद् एव प्रयोजनं पानीयम् तावद् एव तेन उपादीयते न सर्वम् एवम्  सर्वेषु वेदेषु ब्राह्मणस्य विजानतः  वैदिकस्य मुमुक्षोः यदेव मोक्षसाधनं तद् एव उपादेयम् न अन्यत्।”
  • शङ्कर on 2.46: “सर्वेषु वेदोक्तेषु कर्मसु यान्युक्तान्यनन्तानि फलानि तानि नापेक्ष्यन्ते चेत् , किमर्थं तानि ईश्वरायेत्यनुष्ठीयन्ते इत्युच्यते ; शृणु — यथा लोके कूपतडागाद्यनेकस्मिन्  उदपाने  परिच्छिन्नोदके  यावान्  यावत्परिमाणः स्नानपानादिः  अर्थः  फलं प्रयोजनं, स सर्वः अर्थः  सर्वतःसंप्लुतोदके ऽपि यः अर्थः तावानेव संपद्यते तत्र अन्तर्भवतीत्यर्थः। एवं  तावान्  तावत्परिमाण एव संपद्यते  सर्वेषु वेदेषु  वेदोक्तेषु कर्मसु यः अर्थः यत्कर्मफलं सः अर्थः  ब्राह्मणस्य  संन्यासिनः परमार्थतत्त्वं  विजानतो  यः अर्थः यत् विज्ञानफलं सर्वतःसंप्लुतोदकस्थानीयं तस्मिन् तावानेव संपद्यते तत्रैवान्तर्भवतीत्यर्थः। …  सर्वं कर्माखिलम् इति च वक्ष्यति। तस्मात् प्राक् ज्ञाननिष्ठाधिकारप्राप्तेः कर्मण्यधिकृतेन कूपतडागाद्यर्थस्थानीयमपि कर्म कर्तव्यम्।।”
    • ie: For a brAhmaNa/ sannyAsi having ultimate understanding, the value of vaidika karma-s (taken in general) pale in comparison to that of brahma-realization. Before such adhikAra is obtained, the lesser (general) vaidika karma (jJNAna not being available) has to be performed as it eventually leads to the “ultimate understanding”.
  • madhva on 2.45: “इतरदपोद्य वेदानां परोक्षार्थत्वात् त्रिगुणसम्बन्धि-स्वर्गादिप्रतीतितोऽर्थ इव भाति। परोक्षवादो वेदोऽयं इति ह्युक्तम्। अतः प्रातीतिकेऽर्थे भ्रान्तिं मा कुर्वित्यर्थः। न तु वेदपक्षो निषिध्यते। वेदे रामायणे चैव पुराणे भारते तथा। आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते। सर्वे वेदा यत्पदम् कठो.2।15 वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम्। आचारश्चैव साधूनामात्मनो रुचि(नस्तुष्टि) रेव च मनुः 2।16 वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः। भाग.6।1।40 इति वेदानां सर्वात्मना विष्णुपरत्वोक्तेस्तद्विहितस्य तद्विरुद्धस्य च धर्माधर्मोक्तेश्च।”  (ie – Don’t think that the obtuse veda-s are about worldy goals, they speak of viShNu only. )
    • JayatIrtha on mAdhva 2.45: “वेद  इति। धर्ममूलं धर्मज्ञप्तेः कारणम्। तद्विदां वेदविदां मन्वादीनां स्मृतिर्ग्रन्थः शीलं मनोगतिः आचारो धर्मबुद्ध्यानुष्ठानम् आत्मनो मनसो रुचिः। विकल्पविषये प्रणिहितो विहितः। तद्विपर्ययः प्रतिषिद्धः विवक्षितयोगविरोधे हि वेदे सिद्धान्तो निषेध्यः स्यात्। नचैवं प्रत्युत तदनुगुण एवेति भावः। धर्मशब्दोऽत्र निवृत्तिधर्मपरः।”
    • JayatIrtha on mAdhva 2.46: ” ननूक्तं काम्यकर्मिणां समाध्यभावेन ज्ञानाभावान्मोक्षो न भवतीति। “अत्रेदमुच्यते – यद्यपि ज्ञानफलं काम्यकर्मिणां न भवति, तथापि तन्निन्दादिकं नोपपद्यते – कुतः? काम्यकर्मिणां फलं स्वर्गादिकं ज्ञानिनां न भवति इति ज्ञानकर्मणोः साम्यमेवे”ति योगानुष्ठाननियमाक्षेपे सतीत्याहेत्यर्थः। … यद्यपि ज्ञानिनः कर्मिणश्चान्योन्यफलाभावः तथापि ज्ञानिनः फलं महासमुद्रोदकमिव महत्त्वात्। कर्मिणां फलं तु कूपोदकमिवात्यन्ताल्पम्।”
Advertisements

एक उत्तर दें

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / बदले )

Twitter picture

You are commenting using your Twitter account. Log Out / बदले )

Facebook photo

You are commenting using your Facebook account. Log Out / बदले )

Google+ photo

You are commenting using your Google+ account. Log Out / बदले )

Connecting to %s